|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.259. अध्यायः 259
Mahabharata - Vana Parva - Chapter Topics
पाण्डवनिहतभूयिष्ठैर्मृगैर्युधिष्ठिरंप्रति स्वप्ने स्थानान्तरगमनन स्वकुशलशेषीकरणप्रार्थना ॥ 1 ॥ युधिष्ठिरेण भ्रातृषु स्वीयस्वप्नदर्शनकथनपूर्वकं पुनः काम्यकवनंप्रति गमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-259-0x(2631)(25912)
दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः।
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ॥ 3-259-1(25913)
वैशम्पायन उवाच। 3-259-2x(2632)
ततः शयानं कौन्तेयं रात्रौ द्वैतवन मृगाः।
स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ॥ 3-259-2(25914)
तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन्।
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ॥ 3-259-3(25915)
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना।
प्रत्यब्रुवन्मृगास्तत्रहतशेषा युधिष्ठिरम् ॥ 3-259-4(25916)
वयं मृगा द्वैतवने हतशिष्टास्तु भारत।
नोत्सीदेम महाराज क्रियतां वासपर्ययः ॥ 3-259-5(25917)
भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः।
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ॥ 3-259-6(25918)
बीजभूता वयं केचिदवशिष्टा महामते।
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ॥ 3-259-7(25919)
तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान्।
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ॥ 3-259-8(25920)
तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः।
यथा भवन्तो ब्रुवते करिष्यामि च तत्तथा ॥ 3-259-9(25921)
इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः।
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ॥ 3-259-10(25922)
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः।
तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ॥ 3-259-11(25923)
ते सत्यमाहुः कर्तव्या दयाऽस्माभिर्वनौकसाम्।
साष्टमासं हि नो वर्षं यदेनानुपयुंक्ष्महे ॥ 3-259-12(25924)
पुनर्वहुमृगं रम्यं काम्यकं काननोत्तमम्।
तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि ॥ 3-259-13(25925)
वैशम्पायन उवाच। 3-259-14x(2633)
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः ॥ 3-259-14(25926)
ब्राह्मणैः सहिता राजन्ये च तत्रसहोषिताः।
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ॥ 3-259-15(25927)
ते यात्वा सुसुखैर्मार्गैः स्वन्नैः शुचिजलान्वितैः।
ददृशुः काम्यकं पुण्यमाश्रमं तापसान्वितम् ॥ 3-259-16(25928)
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा।
तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ॥ 3-259-17(25929)
इति श्रीमन्महाभारते अरण्यपर्वणि मृगस्वप्नोद्भवपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः ॥ 259 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-259-5 वासस्य पर्ययः वैपरीत्य नात्रवस्तव्यमित्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|